અધ્યાય ૧૨ ફલસ્તુતિ
ध्यान
ॐ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणा
कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् ।
हस्तैश्चक्रगदासिखेटविशखांश्चापं गुणं तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥
देव्युवाच ॥१॥
एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः
तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् -२
मधुकैटभनाशं च महिषासुरघातनम्
कीर्तयिष्यन्ति ये तद्वद् वधं शुंभनिशुंभयोः -३
अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः
श्रोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् -४
न तेषां दुष्कृतं किंच्चिद् दुष्कृतोत्था न चापदः
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् -५
शत्रुतो न भयं तस्य दस्युतो वा न राजतः
न शस्त्रानलतो यौघात्कदाचित्संभविष्यति -६
तस्मान्ममैतन्माहात्म्यं पठितव्यं समाहितैः
श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं हि तत् -७
उपसर्गानशेषास्तु महामारी समुद्भवान्
तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम -८
यत्रैतत्पठ्यते सम्यंग्नित्यमायतने मम
सदा न तद्विमोक्ष्यामि संनिध्यं तत्र मे स्थितम् -९
बलिप्रदाने पूजायामग्निकार्ये महोत्सवे
सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च -१०
जानताऽजानता वापि बलिपूजां तथा कृताम्
प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् -११
शरत्काले महापूजा क्रियते या च वार्षिकी
तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः -१२
सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः
मनुष्यो मत्प्रसादेन भविष्यती न संशयः -१३
श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः
पराक्रमं च युद्धेषु जायते निर्भयः पुमान् -१४
रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते
नंदते च कुलं पुंसां माहात्म्यं मम श्रृण्वताम् -१५
शांतिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने
ग्रहपीडासु चोग्रासु माहात्म्यं श्रृणुयान्मम -१६
उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः
दुःस्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते -१७
बालग्रहाभिभूतानां बालानां शांतिकारकम्
पशुपुष्पार्घ्यधूपैश्च गंधदीपैस्ततोत्तमेः -२०
विप्राणां भोजनैर्होमैः प्रक्षणीयैरहर्निशम्
अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या -२१
प्रीतिर्मे क्रियते सास्मिन्सकृत्सुचरिते श्रुते
श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति -२२
रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम
युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् -२३
तस्मिन्छ्रुते वैरिकृतं भयं पुंसां न जायते
युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः -२४
ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम्
अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः -२५
दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः
सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः -२६
राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बंधगतोऽपि वा
आघूर्णितो वा वातेन स्थितः पोते महार्णवे -२७
पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे
सर्वाबाधा सुघोरासु वेदनाभ्यर्दितोऽपि वा -२८
स्मरन्ममैतच्चरितं नरो मुच्येत संकटात्
मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा -२९
दूरादेव पलायंते स्मरतश्चरितं मम -३०
ऋषिरुवाच ॥३१॥
इत्युक्त्वा सा भगवती चंडिका चंडविक्रमा -३२
पश्यतामेव देवानां तत्रैवान्तरधीयत
तेऽपि देवा निरातंकाः स्वाधिकारान् यथा पुरा -३३
यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः
दैत्याश्च देव्या निहते शुंभे देवरिपौ युधि -३४
जगद्विध्वंसिनि तस्मिन् महोग्रेऽतुलविक्रमे
निशुंभे च महावीर्ये शेषाः पातालमाययुः -३५
एवं भगवती देवी सा नित्यापि पुनः पुनः
संभूय कुरुते भूप जगतः परिपालनम् -३६
तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते
सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति -३७
व्याप्तं तयैतत्सकलं ब्रह्मांडं मनुजेश्वर
महाकाल्या महाकाले महामारीस्वरूपया -३८
सैव काले महामारी सैव सृष्टिर्भवत्यजा
स्थितिं करोति भूतानां सैव काले सनातनी -३९
भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे
सैवाभावे तथाऽलक्ष्मीर्विनाशायोपजायते -४०
स्तुता संपूजिता पुष्पैर्धूपगंधादिभिस्तथा
ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् -४१
ॐ श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये फलस्तुतिर्नाम द्वादशोऽध्यायः ।
હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને બીલું માતાઓને ચડાવવાં.
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
सांगायै सपरिवारायै सवाहनायै सायुधायै ।
बालात्रिपुरसुंदर्यै महाहुतिं समर्पयामि स्वाहा ॥
सघृतं बिल्वफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥