અધ્યાય ૧૩ વરદાન પ્રાપ્તિ
ध्यान
ॐ बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशांकुशवराभीतीर्धारयन्तीं शिवां भजे ॥
ॐ ऋषिरुवाच ॥१॥
एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम्
एवं प्रभावा सा देवी ययेदं धार्यते जगत् -२
विद्या तथैव क्रियते भगवद्विष्णुमायया
तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः -३
मोह्यंते मोहिताश्चेव मोहमेष्यंति चापरे
तामुपैहि महाराज शरणं परमेश्वरीम् -४
आराधिता सैव नृणां भोगस्वर्गापवर्गदा -५
मार्कण्डेय उवाच ॥६॥
इति तस्य वचः श्रृत्वा सुरथः स नराधिपः -७
प्रणिपत्य महाभागं तमृषिं शंसितव्रतम्
निर्विण्णोऽतिममत्वेन राज्यापहरणेन च -८
जगाम सद्यस्तपसे स च वैश्यो महामुने
संदर्शनार्थमंबाया नदीपुलिन संस्थितः -९
स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन्
तौ तस्मिन् पुलिने देव्याः कृत्वामूर्तिं महीमयीम् -१०
अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्रितर्पणૈઃ
निराहारौ यताहारौ तन्मनस्कौ समाहितौ -११
ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम्
एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः -१२
परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चंडिका -१३
देव्युवाच ॥१४॥
यत् प्रार्थ्यते त्वया भूप त्वया च कुलनंदन
मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् -१५
मार्कंडेय उवाच ॥१६॥
ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि
अत्रैवच निजं राज्यं हतशत्रुबलं बलात् -१७
सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः
ममेत्यहमिति प्राज्ञः संगविच्युतिकारकम् -१८
देव्युवाच ॥१९॥
स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् -२०
हत्वा रिपूनस्खलितं तव तत्र भविष्यति -२१
मृतश्च भूयः संप्राप्य जन्म देवाद्विवस्वतः -२२
सावर्णिको नाम मनुर्भावान् भुवि भविष्यति -२३
वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवांछितः -२४
तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति -२५
मार्कण्डेय उवाच ॥२६॥
इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् -२७
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता
एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः -२८
सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ -२९
क्लीं ॐ इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये सुरथवैश्ययोर्वरप्रदानम् नाम त्रयोदशोऽध्यायः ।
હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને કેળું માતાઓને ચડાવવાં.
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
सांगायै सपरिवारायै सवाहनायै सायुधायै ।
त्रिपुरसुंदर्यै श्रीविद्यायै महाहुतिं समर्पयामि स्वाहा ॥
सघृतं कदलीफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥