પ્રાધાનિક રહસ્ય
ॐ अस्य श्रीसप्तशतीरहस्य नारायण ऋषिरनुष्टुप् छन्दः महाकालीमहालक्ष्मी महासरस्वत्यो देवता, यथोक्तफ्लावाप्त्यर्थं जपे विनियोगः ॥
राजोवाच ॥
भगवन्नवतारा मे चंडिकायास्त्वयोदिताः
एतेषां प्रकृतिं ब्रह्मन् प्रधानं वक्तुमर्हसि -१
आराध्यं यन्मया देव्याः स्वरूपं येन च द्विज
विधिना ब्रूहि सकलं यथावत्प्रणतस्य मे -२
ऋषिरुवाच ॥
ईदं रहस्यं परममनाख्येयं प्रचक्षते
भक्तोऽसीति न मे किंच्चित्तवावाच्यं नराधिप -३
सर्वस्याद्या महालक्ष्मीस्त्रिगुणा परमेश्वरी
लक्ष्यालक्ष्यस्वरूपा सा व्याप्य कृत्स्नं व्यवस्थिता -४
मातुलुंगं गदां खेटं पानपात्रं च बिभ्रती
नागं लिंगं च योनिं च बिभ्रती नरप मूर्धनि -५
तप्तकांचनवर्णाभा तप्तकांचनभूषणा
शून्यं तदखिलं स्वेन पूरयामास तेजसा -६
शून्यं तदखिलं लोकं विलोक्य परमेश्वरी
बभार परमं रूपं तमसा केवलेन हि -७
सा भिन्नांजनसंकाशा दंष्ट्रांकितवरानना
विशाललोचना नारी बभूव तनुमध्यमा -८
खड्गपात्रशिरः खेटैरलंकृतचतुर्भुजा
कबंधहारं शिरसा बिभ्राणा हि शिरःस्रजम् -९
सा प्रोवाच महालक्ष्मीं तामसी प्रमदोत्तमा
नाम कर्म च मे मातर्देहि तुभ्यं नमो नमः -१०
तां प्रोवाच महालक्ष्मीस्तामसीं प्रमदोत्तमाम्
ददामि तव नामानि यानी कर्माणि तानि ते -११
महामाया महाकाली महामारी क्षुधा तृषा
निद्रा तृष्णा चैकवीरा कालरात्रिर्दुरत्यया -१२
इमानि तव नामानि प्रतिपाद्यानि कर्मभिः
एभिः कर्माणि ते ज्ञात्वा योऽधीते सोऽश्नुते सुखम् -१३
तामित्युक्त्वा महालक्ष्मीः स्वरूपमपरं नृप
सत्वाख्येनातिशुद्धेन गुणेनेन्दुप्रभं दधौ -१४
अक्षमालांकुशधरा वीणापुस्तकधारिणी
सा बभूव वरा नारी नामान्यस्यै च सा ददौ -१५॥
महाविद्या महावाणी भारती वाक् सरस्वती
आर्या ब्राह्मी कामधेनुर्वेदगर्भा च धीश्वरी -१६
अथोवाच महालक्ष्मीर्महाकालीं सरस्वतीम्
युवां जनयतां देव्यौ मिथुने स्वानुरूपतः -१७
इत्युक्त्वा ते महालक्ष्मीः ससर्ज मिथुनं स्यम्
हिरण्यगर्भौ रुचिरौ स्त्रिपुंसौ कमलासनौ -१८
ब्रह्मन् विधे विरिंचेतिधातरित्याह तं नरम्
श्रीः पद्मे कमलेलक्ष्मीत्याह माता च तां स्त्रियम् -१९
महाकाली भारती च मिथुने सृजतः सह
एतयोरपि रूपाणि नामानि च वदामि ते -२०
नीलकंठं रक्तबाहुं श्वेतागं चंद्रशेखरम्
जनयामास पुरुषा महाकाली सितां स्त्रियम् -२१
स रुद्रः शंकरः स्थाणुः कपर्दी च त्रिलोचनः
त्रयी विद्या कामधेनुः सा स्त्री भाषाक्षरा स्वरा -२२
सरस्वती स्त्रियं गौरीं कृष्णं च पुरुषं नृप
जनयामास नामानि तयारपि वदामि ते -२३
विष्णुः कृष्णो हृषीकेशो वासुदेवो जनार्दनः
उमा गौरी सती चंडी सुंदरी सुभगा शिवा -२४
एवं युवतयः सद्यः पुरुषत्वं प्रपेदिरे
चक्षुष्मंतो नु पश्यन्ति नेतरेऽतद्विदो जनाः -२५
ब्रह्मणे प्रददौ पत्नीं महालक्ष्मीर्नृप त्रयीम्
रुद्राय गौरीं वरदां वासुदेवाय च श्रियम् -२६
स्वरया सह संभूय विरिंचोऽण्डमजीजनत्
बिभेद भगवान् रुद्रस्तद् गौर्या सह वीर्यवान् -२७
अंडमध्ये प्रदानादि कार्यजातमभून्नृप
महाभूतात्मकं सर्वं जगत्स्थावरजंगमम् -२८
पुपोष पालयामास तल्लक्ष्म्या सह केशवः
संजहार जगत्सर्वं सह गौर्या महेश्वरः -२९
महालक्ष्मीर्महाराज सर्वसत्त्वमयीश्वरी
निराकारा च सकारा सैव नानाभिधानभृत् -३०
नामान्तरैर्निरूप्यैषा नाम्ना नान्येन केनचित् -३१