અધ્યાય ૬ – ધૂમ્રલોચનવધ
ध्यान
ॐ नागाधीश्वरविष्टरां फणिफणोत्तंसोरुरत्नावली
भास्वद्देहलतां दिवाकरनिभां नेत्रत्रयोद्भासिताम् ।
मालाकुंभकपालनीरजकरां चन्द्रार्धचूडां परां
सर्वेज्ञेश्वरभैरवांकनलियां पद्मावतीं चिन्तये ॥
ॐ ऋषिरुवाच ॥१॥
इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः
समाचष्ट समागम्य दैत्यराजाय विस्तरात् -२
तस्य दूरस्य तद्वासक्यमाकर्ण्यासुरराट् ततः
सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् -३
हे धुम्र लोचनाशु त्वं स्वसैन्यपरिवारितः
तामानय बलाद् दुष्टां केशाकर्षणविह्वलाम् -४
तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः
स हन्तव्योऽमरो वापि यक्षो गंधर्व एव वा -५
ऋषिरुवाच ॥६॥
तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः
वृतः षष्ट्या सहस्राणामसुराणां द्रुतं ययौ -७
स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम्
जगादोच्चैः प्रयाहीति मूलं शुंभनिशुंभयोः -८
न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति
ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् -९
देव्युवाच ॥१०॥
दैत्यश्वरेण प्रहितो बलवान् बलसंवृतः
बलान्नयसि मामेवं ततः किं ते करोम्यहम् -११
ऋषिरुवाच ॥१२॥
इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः
हुंकारेणैव तं भस्म सा चकाराम्बिका ततः -१३
अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका
ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः -१४
ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम्
पपातासुरसेनायां सिंहो देव्याः स्ववाहनः -१५
कांश्चित् करप्रहारेण दैत्यानास्येन चापरान्
आक्रम्य चाधरेणान्यान् स जघान महासुरान् -१६
केषांचित्पाटयामास नखैः कोष्ठानि केसरी
तथा तलप्रहारेण शिरांसि कृतवान् पृथक् -१७
विच्छिन्नबाहुशिरसः कृतास्तेन तथापरे
पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः -१८
क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना
तेन केसरिणा देव्या वाहनेनातिकोपिना -१९
श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम्
बलं च क्षयितं कृतस्नं देवीकेसरिणा ततः -२०
चुकोप दैत्याधिपतिः शुंभः प्रस्फुरिताधरः
आज्ञापयामास च तौ चंडमुंडौ महासुरौ -२१
हे चंड हे मुंड बलैर्बहुभिः परिवारितौ
तत्र गच्छत गत्वा च सासमानीयतां लघु -२२
केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि
तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् -२३
तस्यां हतायां दुष्टायां सिंहे च विनिपातिते
शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् -२४
ॐ इति श्री मार्कण्डेय पुराणे सावणिर्के मन्वंतरे देवीमाहात्म्ये शुंभनिशुंभ सेनानी धूम्रलोचनवधो नाम षष्ठोऽध्यायः ।
હવન-સામગ્રી અને ઘીની આહુતિ આપીને નાગરવેલનાં બે પાન અને નારંગી માતાઓને ચડાવવાં.
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥
सांगायै सपरिवारायै सवाहनायै सायुधायै ।
शताक्ष्यै धूम्राक्ष्यै महाहुतिं समर्पयामि स्वाहा ॥
सघृतं नारिंगफलं नागवल्लीदलद्वयसहितं पूजितं जुहुयात् ॥
Leave a comment