વૈકૃતિક રહસ્ય
ऋषिरुवाच ॥
ॐ त्रिगुणा तामसी देवी सात्त्विकी या त्रिधोदिता
सा शर्वा चंडिका दुर्गा भद्रा भगवतीर्यते -१
योगनिद्रा हरेरुक्ता महाकाली तमोगुणा
मधुकैटभनाशार्थं यां तष्टावांबुजासनः -२
दशवक्त्रा दशभुजा दशपादांजनप्रभा
विशालया राजमाना त्रिंशल्लोचनमालया -३
स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप
रूपसौभाग्यकांतीनां सा प्रतिष्ठा महाश्रियः -४
खड्गबाणगदाशूलचक्रशंख भुशुंडिभृत्
परिघं कार्मुकं शीर्षं निश्च्योतद्रुधिरं दधौ -५
एषा सा वैष्णवी माया महाकाली दुरत्यया
आराधिता वशीकुर्यात् पूजाकर्तुश्चराचरम् -६
सर्वदेवशरीरेभ्यो याऽऽविर्भूतामितप्रभा
त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी -७
श्वेतानना नीलभुजा सुश्वेतस्तनमंडला
रक्तमध्या रक्तपादा नीलजंघोरुरुन्मदा -८
सुचित्रजघना चित्रमाल्यांबरविभूषणा
चित्रानुलेपना कांतिरूपसौभाग्यशालिनी -९
अष्टादशभुजा पूज्या सा सहस्रभुजा सती
आयुधान्यत्र वक्ष्यन्ते दक्षिणाधः करक्रमात् -१०
अक्षमाला चकमलं बाणौऽसिः कुलिशं गदा
चक्रं त्रिशूलं परशुः शंखो घंटा च पाशकः -११
शक्तिर्दण्डश्चर्म चापं पनपात्रं कमंडलुः
अलंकृत भुजाभिरायुधैः कमलासनाम् १२
सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप
पूज्येत्सर्वलोकानां स देवानां प्रभुर्भवेत् -१३
गौरी देहात्समुद्भूता या सत्त्वैकगुणाश्रया
साक्षात्सरस्वती प्रोक्ता शुंभासुरनिबर्हिणि -१४
दधौ चाष्टभुजा बाणमुसलेशूलचक्रभृत्
शंखं घंटां लांगलं च कार्मुकं वसुधाधिप -१५
एषा संपूजीता भक्त्या सर्वज्ञत्वं प्रयच्छति
निशुंभमथिनी देवी शुंभासुरनिबर्हिणि -१६
इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव
उपासनं जगन्मातुः पृथगासां निशामय -१७
महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती
दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् -१८
विरंचिः स्वरया मध्ये रुद्रोगौर्या च दक्षिणे
वामे लक्ष्म्या हृषिकेशः पुरतो देवतात्रयम् -१९
अष्टादशभुजा मध्ये वामे चास्या दशानना
दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् -२०
अष्टादशभुजा चैषा यदा पूज्या नराधिप
दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा -२१
कालमृत्यू च संपूज्यौ सर्वारिष्टप्रशांतये
यदा चाष्टभुजा पूज्या शुंभासुरनिबर्हिणि -२२
नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ
नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् -२३
अवतारत्रयार्चायां स्तोत्रमंत्रास्तदाश्रयाः
अष्टादशभुजा चैषा पूज्या महिषमर्दिनी -२४
महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती
ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी -२५
महिषांतकरी येन पूजीता स जगत् प्रभुः
पूज्येज्जगतां धात्रीं चंडिकां भक्तवत्सलाम् -२६
अर्घ्यादिभिरलंकारैर्गन्धपुष्पैस्तथाक्षतैः
धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः -२७
रुधिराक्तेन बलिना मांसेन सुरया नृप
प्रणामाचमनीयेन चन्दनेन सुगंधिना -२८
सकर्पूरैश्च तांबूलैर्भक्तिभावसमन्वितैः
वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् -२९
पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया
दक्षिणे पूरतः सिंहं समग्रं धर्ममीश्वरम् -३०
वाहनं पूजयेद्देव्या धृतं येन चराचरम्
कुर्याच्च स्तवनं धीमांस्तस्या एकाग्रमानसः -३१
ततः कृतांजलिर्भूत्वा स्तुवीत चरितैरिमैः
एकेन वा मध्यमेन नैकेनेतरयोरिह -३२
चरितार्धं तु न जपेज्जपंछिद्रमवाप्नुयात्
प्रदक्षिणा नमस्कारान् कृत्वा मूर्ध्नि कृतांजलिः -३३
क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतन्द्रितः
प्रतिश्लोकं च जुहुयात् पायसं तिलसर्पिषा -३४
जुहुयात् स्तोत्रमंत्रैर्वा चंडिकायै शुभं हविः
भूयो नाम पदैर्देवीं पूजयेत्सुसमाहितः -३५
प्रयतः प्रांजलिः प्रह्वः प्रणम्यारोप्य चात्मनि
सुचिरं भावयेदीशां चंडीकां तन्मयो भवेत् -३६
एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम्
भुक्त्वा भोगान्यथाकामं देवीसायुज्यमाप्नुयात् -३७
यो न पूजयते नित्यं चंडिकां भक्तवत्सलाम्
भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी -३८
तस्मात्पूज्य भूपाल सर्वलोकमहेश्वरीम्
यथोक्तेन विधानेन चंडिकां सुखमाप्स्यसि -३९
Leave a comment